________________
त्रयोदशः सर्गः।
दूतश्चौद्रायणनृपो जञ्चे दशपुरे पुरे । सोमदेवो ऽभवहिनो रुद्रसोमा तु तत्प्रिया ॥१॥ ब्राह्मणी रुद्रमोमा सा बभूव परमाईतौ । दयादिभिर्गुणैर्धर्मद्रुमबौओरलंकृता ॥२॥ तयोरजनिषातां द्वौ तनयो नयशालिनौ । नाम्नार्यरक्षितो ज्यायान्कनौयान्फल्गुरक्षितः ॥३॥ तत्रार्यरचितो मौञ्जौबन्धनादयनन्तरम् । श्रधौयाय पितुरेव सकाशे यद्विवेद मः ॥४॥ ततो ऽनुजाप्य पितरावध्येतमधिकाधिकम् । पाटलीपुत्रनगरे प्रययावार्यरक्षितः ॥५॥ सो ऽङ्गानि वेदश्चितरो मौमामां न्यायविस्तरम् । पुराणं धर्मशास्त्रं च तबाध्यैष्ट विशिष्टधीः ॥६॥ चतुर्दशापि हि विद्यास्थानानि निजनामवत् । कृत्वा कण्ठगतान्यागात्पुरं दशपुरं पुनः ॥७॥ चतुर्वेदो ऽयमाथातः पूज्य इत्यवनोभुना। अधिरोह्य करिस्कन्धे स प्रावेश्यत पत्तने ॥८॥ विविधोपायनकरा लोका अपि तमभ्यगुः । राजभिः पूज्यते यो हि पूजनीयो न कस्य सः ॥६॥ ग्टहस्य बाह्यशालायामध्युवामार्यरक्षितः । कुटुम्बे दददानन्दमुपदामिव नूतनम् ॥१०॥