________________
२६०
परिशिरापर्वणि द्वादशः सर्गः।
शिष्येभ्यः कथयामास गुरुः खप्न च तं प्रगे । तस्यार्थं विविधं ते ऽपि यथाप्रज्ञं व्यचारयन् ।।२२०॥ गुरुरूचे न जानौथातिथिः कोऽप्यागमयति । स सार्थं सूत्रमत्तः सर्वमादास्यते. सुधौः ॥२२१॥ वज्रो ऽपि नगरौहारे शरोमतिवाह्य च । प्रभाते ऽगाइद्रगुप्ताचार्यवर्यप्रतिश्रयम् ॥ २२२॥ दूरतो वज्रमालोक्य गुरुरिन्दुमिवार्णवः । उल्लासं कलयामास परं परमया मुदा ॥९२३॥ श्राचार्यो ऽध्यायद हो मे सौभाग्येनास्य धौरिति । किमालिङ्गाम्यहममुमसमारोपयामि च ॥२२४॥ प्रसिद्धिमदृौं वज्रस्याकृतिं परिभाव्य च । वज्रो ऽयमिति निश्चिक्ये भद्रगुप्तो महामुनिः ॥२२५॥ वन्दनाभिमुखं वज्रं भद्रगुप्तो ऽथ मखने । बलीयसौ खलत्कण्ठा विनयं न प्रतीक्षते ॥ २२६॥ भारोप्याङ्के भद्रगुप्ताचार्यों वज्रमभाषत । अधितबदनाम्भोज खनेत्रे मृङ्गतां नयन् ॥ २२७॥ कञ्चित्सुखविहारस्ते कच्चित्ते ऽगमनामयम् । कञ्चित्तपस्ते निर्विघ्नं कचित्ते कुशलौ गुरुः ॥२२८॥ कि किंचित्कार्यमुद्दिश्य विहारक्रमतो ऽथवा । इहागतो ऽसि वर्षे कथयास्मान्प्रमोदय ॥ २२६॥ वन्दित्वा भद्रगुप्तर्षि वज्रो विरचिताञ्जन्तिः । उवाच वदनद्दारविन्यस्तमुखवस्तिकः ॥९३०॥