________________
परिशिष्टपर्वणि हादशः सर्गः। वज्रश्चिरमवज्ञातो ऽस्माभिरज्ञाततद्गुणैः । इदानौं भगवत्पादा दुव बालो ऽव्ययं हि नः ॥१८॥ बालो ऽप्यस्वेष गच्छस्य गुरुर्गुरुगुणन्वितः । प्रदीपः कुन्दकलिकामात्रो ऽयुद्योतयेगृहम् ॥१६॥ प्राचार्यवर्या जगदुर्भवत्वेवं तपोधनाः ।। किं वसौ नावमन्तव्यो विद्यावृद्धो ऽर्भकोऽपि हि ॥२ ० ० ॥ अगमाम वयं ग्राममाचार्यो ऽयं च वो ऽर्पितः । श्रत एव यथा वित्थ यूयमस्येदृशान्गुणान् ॥२ ० १॥ अन्यथा वाचनाचार्यपदवौं नायमहति । गुर्वदत्तं यतो ऽनेन कर्णश्रुत्याददे श्रुतम् ॥२०२॥ सङ्घपानुष्ठानरूपोत्सारकन्यो ऽस्य संयताः । कार्य प्राचार्यपदवीयोग्यो ह्येष ततो भवेत् ॥२०३॥ ततश्च प्रागपठितं श्रुतमर्थसमन्वितम् । शीघ्रमध्यापयामास वजं गुरुरुदारधीः ॥२०४॥ साचिमात्रौकृतगुरुवज्रो गुर्वर्पितं श्रुतम् । प्रतिबिम्बमिवादर्शः सर्वं जग्राह लीलया ॥२०५॥ श्रुतज्ञो ऽभूत्तदा वज्रो यथा तस्य गुरोरपि । दुर्भेचिरसन्देहलोष्टमुहरतां ययौ ॥२०६॥ दृष्टिवादो ऽपि हृदये यावन्माचो ऽभवहुरोः । तावानुपाददे वज्रेणाम्भश्चलकलौलया ॥२०७॥
अन्यदा विहरन्तस्ते ग्रामाधामं पुरात्पुरम् । पुरं दशपुरं जग्मुराचार्याः सपरिच्छदाः ॥२०॥