________________
२८६
परिशिष्ठपर्वणि द्वादशः सर्गः ।
उपत्य जिहितगतिर्न यावत्माविशद्गुरुः । तावत्ता वेष्टिका वज्रः खखस्थाने सुमोच च ॥ १७६॥ अभ्येत्य च गुरोर्दण्डमाददै हौ ममार्ज च । तद्रजोवन्दनेनोः खं भालमवगुण्ड्यन् ॥ १७ ॥ आसनस्थस्य च गुरोः पादौ प्रासुकवारिणा । क्षालयामाम शिरमा ववन्दे पादवारि च ॥१७८॥ प्राचार्याश्चिन्तयामासुमहात्मा बालको ऽप्यसौ । श्रुतमागरपारौणो रच्योऽवज्ञास्पदीभवन् ॥ १७६ ॥ अजानन्नो ऽस्य माहाम्यं बालस्याप्यन्यसाधवः । कुर्वन्ति न यथावज्ञा प्रतिष्यामहे तथा ॥१८॥ इत्याचार्या विभावयों शिव्येभ्यो ऽकथयबिति । यास्थामो ग्रामममुकं दित्राहं तत्र नः स्थितिः ॥१८१॥ व्यजिज्ञपन्गुरु योगप्रतिपन्नाश्च माधवः । भगवन्याचनाचार्यस्तत्को ऽस्माक भविष्यति ॥ १८॥ वज्रो वो वाचनाचार्यों भवितेत्यादिशगुरुः । भकत्वादविचार्यैव प्रत्यपद्यन्त ते तथा ॥१८३॥ प्रातःकृत्यं कायोत्सर्गवाचनाग्रहणादिकम् । कत ते साधवो वज्र निषद्यायां न्यषादयन् ॥१८४ ॥ गुर्वाज्ञास्तौति वज्रो ऽपि निषद्यायामुपाविशत् । प्राचार्यस्येव विनयं तस्याकार्षश्च साधवः ॥१८५॥ सर्वेषामपि साधूनामानुपूर्त्या परिस्फुटान् । सङ्कान्या वज्रलेपाभान्वजो ऽथालापकान्ददौ ॥१८६॥