________________
२८२
परिशिरापर्वणि द्वादश. सर्गः ।
भ्राता मम प्रनजितो भर्ता प्रबजितो ऽथ मे । प्रव्रजिष्यति पुत्रो ऽपि प्रव्रजाम्यहमप्यतः ॥ ११९॥ न मे भाता न मे भर्ता न मे पुचो ऽपि सम्प्रति । तन्ममापि परिव्रज्या श्रेयसौ ग्रहवामतः ॥१३३॥ खयमेवेति निर्णय सुनन्दा सदनं ययौ । वज्रमादाय वसतिं प्रथयुर्मुनयो ऽपि ते ॥१३४॥ व्रतेच्छुर्न पपौ स्तन्यं वज्रस्तावद्वया अपि । इत्याचार्यैः परिव्राज्य साध्यौनां पुनरायंत ॥१३५॥ उद्यद्भाग्यविशेषेण भववैराग्यभूङ्गशम् । सुनन्दापि प्रवबाज तगच्छाचार्यमनिधौ ॥ १३६ ॥ पठदार्यमुखाच्छृण्व चङ्गान्येकादशापि हि । पदानुसारौ भगवान्वज्रो ऽधौयाय धौनिधिः ॥ १३७॥ अष्टवर्क ऽभवद्वज्जो याबदार्याप्रतिश्रये । ततो वसत्यामानिन्ये हर्षभाग्मिमहर्षिभिः ॥१३८॥ __ अन्यदा वज्रगुरवः प्रत्यवन्तौं प्रतस्थिरे । धाराधरो ऽखण्डधारमन्तराले ववर्ष च ॥१३६॥ यक्षमण्डपिकापाये स्थाने वाप्यस्रवन्जले । प्राचार्या वज्रगुरवस्ते तस्थुः सपरिच्छदाः ॥ १४ ॥ प्रागजन्मसहदो वज्रस्यामरा जम्भकास्तदा । सत्त्वं परीचितं तत्र वणिग्मौर्विचक्रिरे ॥ १४१॥ उत्पर्याणितबद्धवाश्ववृषभं चरदौष्ट्रकम् । मण्डलीकृतशकटं सनिवेशितकेणिकम् ॥ १४२॥