________________
वचखामिव्रत |
यदि समुपेचिये कृत्वा मातुः कृपामहम् ।
तदा स्यान्मम संसारो दीर्घदीर्घतरः खलु ॥ १२१ ॥ दूयं च धन्या माता मे ऽल्पकर्मा प्रत्रजिष्यति । उपेक्ष्यमस्या ह्यापातमात्रजं दुःखमप्यतः ॥ १२२ ॥ दीर्घदर्शी विमृश्यैवं वज्रो वज्रदृढाशयः । प्रतिमास्य इव स्थानान चचाल मनागपि ॥ १२३ ॥ राजावादोत्सुनन्दे त्वमपसर्प शिशुईसौ । नागादा यमानस्त्वामजानन्निव मातरम् ॥ १२४ ॥ ततो राज्ञा धनगिरिः प्राप्तावसरमीरितः । रजोहरणमुत्क्षिप्य जगादेवं मिताचरम् ॥ १२५ ॥ व्रते चेद्व्यवसायस्ते तत्त्वज्ञो ऽमि यदि स्वयम् । तद्रजोहरणं धर्मध्वजमादत्ख मे ऽनघ ॥ १२६ ॥ वज्रस्तदैव कलभ वोत्क्षिप्तकरो द्रुतम् । दधावाभिधनगिरि प्रकरणत्पादघर्घरः ॥ १२७ ॥ गत्वा च पितुरुत्सङ्गमधिरुह्य विशुद्धधीः । तट्रजोहरणं लौलासरोजवदुपाददे ॥ १२८ ॥ वज्रेण पाणिपद्माभ्यां रजोहरणमुद्धृतम् । विरराज रोमगुच्छ व प्रवचनश्रियः ॥ १२८ ॥ उन्नमत्कुन्दकलिकाकारदन्तद्युतिमितः ।
स रजोहरणादृष्टिं नान्यत्रादान्मनागपि ॥ १३० ॥ दिनात्यये पद्मिनीव सद्यो मानिमुपेयुषौ । हस्तविन्यस्तचिका सुनन्दैवमचिन्तयत् ॥ १३१ ॥
२८१