________________
२८०
परिशिष्चपर्वणि हादमः सर्गः। स्त्रोग्टह्याः प्रोचिरे पौरा वतिनामेष बालकः । चिरसंघटितप्रेमा तदचो नातिलवते ॥११॥ मातवाहयतामादावियं दुष्करकारिणौ। नारोति चानुकम्प्यापि भवत्येतद्धि नान्यथा ॥१११॥ ततः सुनन्दा बडशो बालकौडनकानि च । विविधानि च भक्ष्याणि दर्शयन्त्येवमभ्यधात् ॥ ११२॥ हस्तिनो ऽमौ अमौ अश्वाः पत्तयो ऽमौ अमौ रथाः । तव कौलार्थमानौतास्तगहाणेहि दारक ॥११३॥ मोदका मण्डका द्राक्षाः शर्कराश्चान्यदप्यदः । यदिच्छसि तदस्त्येव गृह्यतामेहि दारक ॥११४॥ तवायुमकृषौयाहं मर्वाङ्गमवतारणे । चिरं जीव चिरं नन्द सुनन्दामाशु मोदय ॥११५॥ मम देवो मम पुत्रो ममात्मा मम जीवितम् । त्वमेवासौति मां दौनां परिवङ्गण जौवय ॥ ११६॥ विलक्षां मा कथा वत्स मां लोकस्यास्य पश्यतः । हृदयं मे ऽन्यथा भावि पक्वालुवट्विधा ॥११॥ एहि इंसगते वम ममोत्सङ्ग परिष्कुरु । कुक्षिवासावक्रयो मे न लभ्यः किमियानपि ॥११॥ एवं क्रौडनकैर्भक्ष्यप्रकारैश्चाटुकैरपि । मौनन्देयः सुनन्दाया नाभ्यगच्छन्मनागपि ॥ ११६॥ न मातरुपकाराणां कोऽपि स्यादनृणः पुमान् । एवं विदन्नपि सुधौर्वत्र एवमचिन्तयत् ॥१२॥