________________
बच्चखामिजन्म।
नास्य कापि तपःशक्तिस्तापसस्य तपखिनः । केनाप्यसौ प्रयोगेण प्रतारयति वो ऽखिलान् ॥७७॥ यथा ह्यकालपुष्पादि दर्शितं कौतुकावहम् । तथैतदपि विज्ञानं न तपःनिरीदृशौ ॥७॥ उपदेशमानसिद्धे साध्ये युग्मादृशामपि । विज्ञाने विस्मयं कृत्वा मा सा श्रद्धत्त तापमान् ॥७८ ॥ यदि वः प्रत्ययो नास्ति तापमस्तन्निमन्व्यताम् । ग्टहागतस्य तस्याही प्रक्षाल्यौ पादुके अपि ॥८॥ श्रावस्तापसः सो ऽथ मायां कृत्वा न्यमन्त्र्यत । एकस्य श्रावकस्यौकस्यागात्परिवतो जनैः ॥८॥ श्रावकः सकुटुम्बो ऽपि दर्शयन्भकिनाटकम् । तं तापममभाषिष्ट ग्रहदारमुपागतम् ॥८२॥ भगवन्भवतः पादपद्मौ प्रक्षालयाम्यहम् । ये चालयन्ति लत्पादावात्मानं चालयन्ति ते ॥८३॥ तदस्माननुग्रीवं निस्तारथितुमर्हसि । सूबलयन्ति महात्मानो भनि भक्तिमतां न हि ॥८४॥ अनिच्छतो ऽपि तस्याथ श्रावकस्तापसस्य सः । चालयामाम पादौ च पादुके चोषणवारिणा ॥८५ ॥ तत्पादपादकाशौचमकार्षात्स तथा यथा । तत्र प्रलेपगन्धो ऽपि नास्यान्नौचे ऽनुरागवत् ॥८६॥ महत्या प्रतिपत्त्या तं तापमं श्रावकाग्रणीः । अभोजयत्कार्यवशात्पूच्या मिथ्यादृशो ऽपि हि ॥८॥