________________
२७६
परिशिष्पर्वणि द्वादशः सर्गः।
जननौपुचसम्बन्धं तवामुथार्भकस्य च । न विद्मः किं त्वमौ न्यासो गुरूणामिति ते ऽवदन् ॥६६॥ इत्युका नार्पयामासुस्तस्यै शय्यातराः सुतम् । ततश्चैक्षिष्ट सा वनं दूरस्थैव परस्त्रवत् ॥६॥ महता परोधेन मा तेषामेव वेश्मनि । धाचौव लालयामास स्तन्यपानादिना सुतम् ॥६॥
दतो ऽपि चाचलपुरविषये श्रीविभूषणे । कन्या पूर्णा चेति नद्यौ विद्यते प्रथिताभिधे ॥६६॥ अन्तराले तयो द्यौरवात्सुः केऽपि तापसाः । पादलेपविदेको भुत्तेषां मध्ये च तापसः ॥७०॥ विधाय पादलेपं च पादुके परिधाय च । जले ऽपि स्थलवत्पादौ विन्यस्यन् सचचार मः ॥२१॥ एवं च पादुकारूढः स नित्यं जलवाना । पुरे गतागतं चक्रे जनयन्विस्मयं जने ॥७२॥ नहि वो दर्शने कोऽपि प्रभावो ऽस्ति यथा हि नः । श्रमणोपासकानेवं प्रजहास स तापम: ॥७३॥ तत्रागादार्यशमिताचार्यों वज्रस्य मातुलः । विहारक्रमयोगेण योगसिद्धो महातपाः ॥७४॥ तस्मै चाचार्यवर्याय कथयामासुराहताः । खदर्शनोपहास ते तापमोपज्ञमुच्चकैः ॥१५॥ तदाकार्यशमितः श्रुतज्ञाने स्फुरत्यपि । ज्ञात्वा मतिबलेनापि जगाद स्वानुपासकान् ॥७६ ॥