________________
वञ्चखामिजन्म।
२७५
गत्वा शय्यातरकुले भने तं बालमार्यिकाः । खमात्मानमिवाख्याय पालनायार्पयनथ ॥५५॥ कुमारभृत्याकुशलाः शय्यातर्यो ऽपि तं शिशम् । खखपुत्राधिकं प्रौत्या पश्यन्यः पर्यपालयन् ॥५६॥ शच्यातरपुरीणां स सौभाग्यनिधानभूः । अङ्कादकं संचचार हमो ऽम्बुजमिवाम्बुजात् ॥५॥ उन्नापयन्यस्तं वालं मन्मनोलापपूर्वकम् । शय्यातरकुटुम्बिन्यो हर्षवातुलनां ययुः ॥१८॥ शय्यातर्यो महाभागाः नानपानाशनादिभिः । स्पर्धमाना इवान्योन्यं चक्रुर्वज्रस्य सत्कियाम् ॥५८ ॥ वयोवृद्धवपरीणामो वचो वालो ऽपि संयमात् । न बालचापलं चक्रे किंचित्तासाममौख्यदम् ॥६॥ बुभुजे प्रासुकं वज्रः प्राणयात्राकृते सुधीः । जातिस्मरणमंजातविवेकः कल्पविद्धि मः ॥६१॥ चिकौर्षति स्म वालो ऽपि नौहारादि यदा च मः । चक्रे तदा सदा सन्जां सुव्यक्ता बालधारिषु ॥२॥ शय्यातरकुमाराणां सर्वेषां युग्मभूरिव । वज्रो ऽभवत्नौतिगुण ममानं तेषु दर्शयन् ॥६॥ जानोपकरणादानैर्वालकौडां प्रपञ्चयन् । वज्रः प्रमोदयामाम प्रतिवामरमार्यिकाः ॥ ४॥ वजं दृष्ट्वा सुनन्दापि सुरूपं गोलशालिनम् । शय्यातरेभ्यो ऽयाचिष्ट मत्सनु रिति वादिनी ॥६५॥