________________
हादशः सर्गः । सुहस्तिनो ऽन्वये वज्रखामौ च क्रमयोगतः । अभूत्प्रवचनाधारस्तत्कथाथ प्रपञ्च्यते ॥१॥ इहैव जम्बूद्वीपे ऽपागभरतार्धविभूषणम् । अवन्तिरिति देशो ऽस्ति स्वर्गदेशीय द्धिभिः ॥२॥ तत्र तुम्बवनमिति विद्यते मनिवेशनम् । निवेशनमिव श्रीणां घुमदामपि हर्षदम् ॥३॥ बभूव श्रावकस्तच श्रियो देव्या वात्मजः । भ्यपुत्रो धनगिरिगिरीकृतधनोञ्चयः ॥४॥ मध्यमेनापि वयमा तस्य भूषितवर्मणः । हृदये नाविशत्कामः प्रामहाःस्थरचिते ॥५॥ धर्मादर्थो भवतीति न्यायशास्त्रेवधीयते । सो ऽर्थादपि व्यधाद्धर्म पात्रेभ्यो ऽथ नियोजयन् ॥६॥ ब्रह्मचर्यपरीणामं वर्गमोक्षफलं विदन् ।
येष कन्यां नोरोढं सो ऽद्धर्मपरायणः ॥७॥ यत्र यत्र कुले कन्यां धनगियर्थमावृतौ । प्रार्थयेते स्म पितरौ तदुद्दाहमहोत्सवे ॥८॥ नत्र तत्र धनगिरिर्गत्वा स्वयमचीकथत् । अहं हि प्रव्रजिष्यामि दोषो ऽस्ति मे न जल्पतः ॥ ॥ युग्मम् ॥ दूतश्च धनपालस्य महेन्यस्य तु नन्दना । सुनन्दोचे धनगिरेयाई सो ऽस्तु मे वरः ॥१०॥