________________
२६८
परिशिष्यर्वणि एकादशः सर्गः ।
अवन्तिसुकुमालस्य पत्न्यो गत्वाथ सद्मनि । भद्रायाः पुरतः सर्व तं वृत्तान्तं न्यवौविदन् ॥१६५॥ अवन्तिसुकुमालस्य माता भद्रा निशात्यये । श्मशाने प्रययौ तत्र कन्यारोवनलाञ्छिते ॥१६६॥ आकृष्ट दिशि नैर्ऋत्यां दृष्ट्वा सूनोः कलेवरम् । सरोद वाष्पमिषतो वारिदानोद्यतेव मा ॥१६॥ भद्रा वधूभिः सहिता रुदतौ विललाप च । प्राणानपि किमत्याचौरस्मानिव किमौदृशः ॥२६८॥ वत्स प्रबजितो ऽपि त्वमेकस्मिन्नपि वासरे । किं नाम नालमकृथा विहारेण ग्टहाङ्गणम् ॥१६८॥ का नाम रात्रिः कल्याणौ सा भविष्यत्यतः परम् । या स्वप्ने दर्शयित्वा वामस्मान्मजीवयिष्यति ॥१७॥ निर्मोहीभूय यद्यस्मान्पर्यहार्षोंनतेच्छया । तद्गुरुवपि निर्मोहः किमभूस्ते यदुनिताः ॥१७१॥ विलप्यैवं बडतरं भद्रा सिप्रानदीतटे । तस्यौदेहिकं चक्रे रुदती समयोचितम् ॥१२॥ भद्रासूनोर्टहिण्यो ऽपि विलप्य च विलय च । सिप्रायां चक्रिरे शङ्खोद्धरणं क्लिन्नवासमः ॥१७३॥ सुतम्मृत्युसमुद्भूतशोकानलकरालिता ।। भद्रा तदैच्छत्यव्रज्या शमामृततरङ्गिणीम् ॥१७४॥ भद्राथ सदने गत्वा मुक्कैकां गुर्विौँ वधूम । वधूभिः सममन्याभिः परिव्रज्यामुपादै ॥ १७५ ॥