________________
अवन्तिसुकुमालनलिनौगुल्मगमनं ।
विशाला वाहनकुटौ वसतिं सार्पयत्ततः । सहस्तौ सपरीवारो ऽप्यलचक्रे ततश्च ताम् ॥१३ २॥ परावर्तितुमारेभे प्रदोषसमये ऽन्यदा । श्राचार्यैर्नलिनौगुल्माभिधमध्ययनं वरम् ॥१३ ३॥ भद्रायाश्च सुतो ऽवन्तिसुकुमालः सुरोपमः । तदा च विलमन्नामौत्सप्तभुमिग्रहोपरि ॥१२४॥ द्वात्रिंशता कलवै स क्रौडन् स्वःस्त्रौनिभैरपि । तस्मिन्नध्ययने कर्ण ददो कर्णरसायने ॥१३५॥ तत्सम्यगाकर्णयितुं भट्रासूनुरनूनधीः । प्रासादातमुत्तौर्य वमतिद्वारमाययौ ॥१३ ६॥ अनुभूतं मया केदमिति चिन्तापरः स तु । संजातजातिस्मरणो ययावाचार्यसनिधौ ॥१३७॥ नत्वा चोवाच भगवन्भद्रायाम्तनयो ह्यहम् । पुरा च नलिनौराल्मविमाने त्रिदशो ऽभवम् ॥१३८॥ विमानं नलिनौगुल्म जातिस्मृत्या मया स्मृतम् । तत्रैव गन्त भूयो ऽद्य परिविव्रजिषाम्यहम् ॥१३६ ॥ ततः प्रार्थयमानं त प्रव्राजयत मामिति । श्राचार्यमिश्रा जगदः सुकुमारो ऽसि दारक ॥१४॥ सखदा लोहचणकाः सुपर्णा वहयो ऽपि हि । दुष्करं तु जिनोपजं तपो ऽतीचारवर्जितम् ॥१४२॥ भानेयो ऽभिदधे वाढ प्रव्रज्योत्कण्ठितस्त्वहम् । मामाचारौं चिरतरं न च पालयितुं क्षमः ॥१४॥