________________
२६४
परिशियपर्वणि एकादशः सर्गः ।
मदीये शिष्यमन्ताने स्थूलभद्रमुनेः परम् । पतत्प्रकर्षा माधूनां मामाचारौ भविष्यति ॥१२१॥ स्थूलभद्रमुनेः पश्चादावा तीर्थप्रवर्तको । अभूव तदिदं स्वाभिवचः सत्यापित वया ॥१२२॥ म्यापयित्वेत्यसम्भोगिकल्पमार्यमहागिरिः । जीवन्तस्वामिप्रतिमा नत्वावन्न्या विनिर्ययौ ॥१२३॥ पूर्वं हि समवस्तौ श्रीमतचरमाईतः । दशाभद्रसम्बोधसमये यानि जज्ञिरे ॥१२४॥ गजेन्द्रस्याग्रपदानि समायाते दिवस्पतौ । तथैवास्थ्श्च तत्रागात्तीर्थे गर्यमहागिरिः ॥१२॥ युग्मम् ॥ ख्याते तच महातीर्थे गजेन्द्रपदनामनि । व्यक्तदेहो ऽनशनेन ययौ खर्ग महागिरिः ॥१२६॥ पार्थिवः सम्प्रतिरपि पालय श्रावकवतम् । पूर्णायुर्देव्यभूसिद्धि क्रमेण च गमिष्यनि ॥१२७॥
अथ विहत्याच्यचार्यसुहस्त्युन्जयिनी पुनः । जीवन्तस्वामिप्रतिमावन्दनार्थ समाययौ ॥१२८॥ बाह्योद्याने च भगवान् सुहस्तौ ममवासरत् । वसतिं याचितं अषोत्पूर्मध्ये हौ भुनी च सः ॥१२८ ॥ तौ तु भद्राभिधानाथाः श्रेष्ठिन्या जग्मतरीहे । सापि पप्रच्छ तौ नत्वा किं नामादिशतं युवाम् ॥ ९३ ० ॥ तावप्यूचतुरावां हि शिष्यावार्थसुहस्तिनः । तदादेशेन कल्याणि वसतिं प्रार्थयावहे ॥ १३१॥