________________
धार्यमहागिरिखर्गगमनं ।
२६३
श्रमणोपासको राजा कान्दविकानथादिशत् । तैलाज्यदधिविक्रेतवस्त्रविक्रायकानपि ॥११॥ यत्किंचिदुपकुरुते माधूनां देयमेव तत् । तन्मूल्यं वः प्रदास्यामि मा स्म शङ्कध्वमन्यथा ॥ १११॥ ते तथारेभिरे का जातहर्षा विशेषतः । विक्रौयमाणे पण्ये हि वणिजामुत्सवो महान् ॥११२॥ तत्तथार्यसुहस्तौ तु दोषयुक्तं विदन्नपि । सेहे शिष्यानुरागेण लिप्तचित्तो बलीयसा ॥११३॥
सुहम्तिनमितश्चार्यमहागिरिरभाषत । अनेषणीयं राजान्न किमादत्से विदन्नपि ॥११४॥ सहस्त्युवाच भगवन्यथा राजा तथा प्रजा' । राजानुवर्तनपरा: पौरा विश्राणयन्यदः ॥११५॥ मायेयमिति कुपितो जगादार्यमहागिरिः । शान्तं पापं विमम्भोग: खल्वतः परमावयोः ॥११६॥ मामाचारौसमानैर्हि माधुभिः साधु मगतम् । मामाचारौ विभिन्नम्य भिन्नो ऽध्वातः परं तव ॥११॥ वेपमानो भिया वाल इव भतः सुहम्त्यपि । प्रार्यमाहागिरिपादावन्दित्वोचे कृताञ्जलिः ॥११८॥ मापराधो ऽस्मि भगवन्मिथ्याःकृतमस्तु मे । क्षम्यतामपराधो ऽयं करिथ्ये नेदृशं पुनः ॥११८ ॥ ऊचे महागिरिरथ दोष: को नाम ते ऽथवा । पुरा भगवता वोरखामिनैतडि भाषितम् ॥१२॥