SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ परिशिडपर्वणि एकादशः सर्गः । पुनर्विज्ञपयामास सुहस्तिनमिलापतिः । भगवंस्वत्प्रमादेन प्राप्तो ऽई पदवौमिमाम् ॥५५॥ त्वया प्रवाजितो न स्यां तदाहं भगवन्यदि। अस्पष्टजिनधर्मस्य का गतिः स्यात्ततो मम ॥५६॥ तदादिशत मे किचित्प्रसौदत करोमि किम् । भवामि नानृणो ऽहं वः पूर्वजन्मोपकारिणाम् ॥५॥ जन्मन्यत्रापि गुरवो यूयं मे पूर्वजन्मवत् । अनुग्टलौत मां धर्मपुत्रं कर्तव्यशिक्षया ॥५८॥ कृपालरादिदेणार्यसुहस्तौ भगवानृपम् । जिनधर्म प्रपद्यख परचेह च शर्मणे ॥५६॥ वर्गः स्यादपवर्गो वामुचाहद्धर्मशालिनाम् । इह हत्यश्वकोशादिसम्पदश्चोत्तरोत्तराः ॥१०॥ अभ्यग्रहौदथ नृपस्तदये तदनुज्ञया । अईन्देवो गुरुः माधुः प्रमाणं मे ऽईतो वच. ॥६॥ अणुव्रतगुणवतशिक्षाव्रतपविचितः । प्रधानश्रावको जज्ञे सम्पतिस्तत्प्रमृत्यपि ॥२॥ त्रिसन्ध्यमप्यवन्ध्यश्रीर्जिना मर्चति स्म सः । माधर्मिकेषु वात्सल्यं बन्धुष्विव चकार च ॥६३॥ स सर्वदा जीवदयातरङ्गितमनाः सुधीः । श्रवदानरतो दानं दौनेभ्यो ऽन्यधिकं ददौ ॥६४ ॥ श्रावतायं प्रतापाच्यः स सकाराविकारधीः । त्रिखण्डं भरतक्षेत्र जिनायतनमण्डितम् ॥६५॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy