________________
सम्पतिराजचरित्रं ।
साधूनामात्तभिक्षाणां वसतिं प्रति गच्छताम् अनुगः सो ऽब्रवौद्रको दौयतां मम भोजनम् ॥४४॥ ते साधवो ऽभिदधिरे जानन्ति गुरवः खलु । वयं गुरुपराधौना न किंचिद्दातमीमहे ॥४५॥ ततः स रङ्कः माधूनामन्वेव वमति ययौ । दौनात्मा तत्र दृष्ट्वास्मानयाचत च भोजनम ॥४६॥ माधवः कथयन्ति स्म भगवनमुना पथि । याचिता वयमप्युच्चै जनं दौनमूर्तिना ॥ ४ ॥ विदितं चैवमस्माभिरुपयोगपरायणैः । भावी प्रवचनाधारो यद्रको ऽयं भवान्तरे ॥४८॥ ततः स द्रमको ऽस्माभिः प्रियपूर्वमभाव्यत । यद्यादत्से परिव्रज्यां लभसे भोजनं तदा ॥४८॥ रको चिन्तयदग्रे ऽपि सर्वकष्टमयो ह्यहम् । तदरं व्रत कष्टमिष्टभोजनलाभकृत् ॥ ५ ॥ प्रतिपन्नं परिवज्यां ततो रङ्क तदैव तम् । प्रव्राज्यावभुजामेष्ट मोदकादि यथारूचि ॥५१॥ स खादं स्वादुमाहार तथा ह्याकण्ठमात्तवान् । पन्याः श्वामानिलस्यापि यथा दुःसञ्चरो ऽभवत् ॥५२॥ तद्दिनस्यैव यामिन्यां तेनाहारेण भूयमा । रुद्धश्वासो विपन्नः स श्वासजीवा हि देहिनः ॥५३॥ स्थितो मध्यस्यभावेन रङ्कमाधुर्विपद्य सः । कुपालस्यावन्तिपतेः सूनुस्वमुदपद्यथाः ॥५४॥
17