________________
२५६
परिशिलपर्वणि एकादश' सर्गः ।
पञ्चाङ्गस्पष्टभूपीठः स नत्वार्यसुहस्तिनम् । पप्रच्छ जिनधर्मस्य भगवन्कीदृश फलम् ॥३३॥ सुहस्तौ भगवानाख्यन्मोक्षः खर्गश्च तत्फलम् । अपच्छडूपतिर्भूयः मामायिकफलं च किम् ॥३४॥ सामायिकश्याव्यनस्य राजनराज्यादिकं फलम् । सुहस्तिनवमाख्याते द्राक् प्रत्येति स्म भूपतिः ॥३५॥ नखाच्छोटनिकां कावा प्रत्ययव्यञ्जिका मुद्धः । एवमेतत्र सन्देह इत्यभाषत भूपतिः ॥२६॥ सुहस्तिनं नमस्कृत्य ततः प्रोवाच पार्थिवः । किं नाम मां यूयमुपलक्षय ऽथवा नहि ॥३॥ प्राचार्यो ऽप्युपयोगेन ज्ञात्वोचे त्वां नरेश्वर । सम्पपलक्षये ऽहं स्वां प्राग्भवकथा श्रणु ॥३८॥
महागिर्याचार्यमित्रैर्विहरन्तो वयं पुरा । मह गच्छेन कौशाम्ख्यामागच्छाम नरेश्वर ॥३६॥ संकीर्णत्वेन वसतेः पृथक्पृथगवस्थितौ। तत्रावां परिवारो हि महानभवदावयोः ॥ ४ ॥ तत्राभूतिदुर्भिक्षं तथाप्यस्मासु भक्तिमान् । लोको भनादिक दातमुपाक्रस्त विशेषतः ॥४१॥ भिक्षार्थं माधवो ऽन्येधुरेकस्य श्रेष्ठिनो रहे । विविशुः पृष्ठतस्तेषां रङ्क एको विवेश च ॥४२॥ . तच्छाकारमर्यादां विविधां मोदकादिभिः । माधवो लेभिरे भिक्षां तस्य पश्यत एव ते ॥४३॥