________________
सम्पतिराजचरित्रं ।
२५५
नैवं भूयः करिष्ये ऽहमिति जन्पन्सुहस्त्यपि । क्षमयामास पादाग्रे लुठनार्यमहागिरिम् ॥२२॥
दतश्च सम्प्रतिनृपो ययावुज्जयिनौं पुरोम् । कदापि क्वापि निष्ठन्ति स्वभूमौ हि महीभुजः ॥२३॥ जौवन्तखामिप्रतिमारथयात्रा निरौचितम् । पायातावन्यदावन्न्यां महागिरिसुहस्तिनौ ॥२४॥ पृथक्पृथग्वसत्यां तौ तस्थतः सपरिच्छदौ । तयोरतिमहागच्छस्ततो नैकत्रसङ्गमः ॥२५॥ निर्ययौ चोत्सवेनाथ जीवन्तस्वामिनो रथः । मनोमयूरजलदः पौराणां भक्तिशालिनाम् ॥२६॥ ताभ्यामाचार्यवर्याभ्यां श्रीमद्धेनाखिलेन च । अन्वौयमानः स रथः पुर्या पर्याटदस्खलन् ॥१०॥ गते राजकुलद्वारं रथे ऽथ पृथिवीपतिः । वातायनस्थितो दूराद्ददर्शार्यसुहस्तिनम् ॥२८॥ दध्यौ चैवं मुनीन्द्रो ऽयं मन्मनाकुमुदोडुपः । कापि दृष्ट दवाभाति न स्मरामि तु किं ह्यदः ॥२८॥ एवं विमर्श कुर्वाणो मूर्छितो न्यपतन्नृपः । श्राः किमेतदिति वदन्दधावे च परिच्छदः ॥ ३०॥ व्यजनैर्वोज्यमानश्च मिच्यमानश्च चन्दनैः । जातिम्मरणमामाद्योदस्थादवनिशामनः ॥३१॥ म प्राग्जन्मगुरुं ज्ञात्वा जातिस्मृत्या सुहम्तिनम् । तदैव वन्दितुमगाडिस्मतान्यप्रयोजनः ॥३२॥