________________
२५४
परिशिष्ठपर्वणि एकादशः सर्गः।
प्राविशत्तत्र भिक्षार्थं तदा चार्यमहागिरिः । तमन्धुदस्थादाचार्यः सुहस्तौ वन्दते स्म च ॥१९॥ श्रेष्ठ्यप्युवाच युभाकमपि कोऽप्यस्ति किं गुरुः । युमाभिर्वन्द्यते विश्ववन्धैर्यदयमागतः ॥१२॥ सुहस्ती समाइ भो श्रेष्ठिन्नामैते गुरवः खल । त्यागाईभनयानादिभिक्षामाददते सदा ॥१३॥ ईदृग्भिक्षाशना ह्येते ऽपरथा स्युरुपोषिताः । सुग्टहीतं च नामैषां वन्धं पादरजो ऽपि हि ॥१४॥ एवं महागिरिं स्तुत्वा प्रतिबोयाखिलांश्च तान् । पुनरेव निजं स्थानं सुहस्ती भगवान्ययौ ॥१५॥ श्रेष्ठ्यपि खजनानूचे दृढभनिर्विशेषतः । ईदृशं पश्यथ मुनि यदा भिक्षार्थमागतम् ॥१६॥ त्यज्यमानं दर्शयित्वा भनपानादिकं तदा । तस्मै देयं तदादत्तं तद्धि वः स्यान्महाफलम् ॥१७॥ युग्मम् ॥ खजनर्वसुभूतेस्तु प्रत्यपद्यत तवचः । भिक्षार्थं च द्वितीये हि तेम्वेवागान्महागिरिः ॥१६॥ महागिरिं समायान्तं दृष्ट्वा ते श्रेष्ठिबन्धवः । तथैवारेभिरे क तस्मै नदातुमिच्छवः ॥१६॥ उपयोगेन विज्ञाय तदशद्धं महागिरिः । अंतादायैव वसतिं गत्वा चोचे सुहस्तिनम् ॥२०॥ त्वया ह्यो ऽविनयं कृत्वानेषणा महती कृता । ते हि त्वदपदेशेन भिक्षां मह्यमसज्जयन् ॥२१॥