________________
एकादशः सर्गः । भविकाननुग्रहन्तौ कुर्वाणो धर्मदेशनाम् । महौं विहरतः स्मार्यो महागिरिसुहस्तिनौ ॥१॥ कालक्रमेण भगवाञ्जगहन्धुर्महागिरिः । शिष्यान्निष्पादयामास वाचनाभिरनेकशः ॥२॥ महागिरिर्निज गच्छमन्यदादात्सुहस्तिने । विहाँ जिनकन्पेन बेको ऽभून्मनमा स्वयम् ॥३॥ व्यच्छेदान्जिनकल्पस्य गच्छनिश्रास्थितो ऽपि हि । जिनकन्याईया वृत्त्या विजहार महागिरिः ॥४॥ ते धर्मदेशनावारि वर्षन्तो वारिदा दूव । विहरन्तो ऽन्यदाजग्मुः पाटलीपुत्रपत्तनम् ॥५॥ वसुभतिरिति श्रेष्ठौ तत्र चार्यसुहस्तिना । संबोधितः श्रावको ऽभूज्जीवाजौवादितत्त्व वित् ॥६॥ सहस्त्याख्यातधर्मानुवादेन स्वजनानपि । प्रबोधयितुमारेभे वसुभूतिर्दिवानिशम् ॥७॥ प्रबोध्यमाना अपि ते मादरं वसुभूतिना ।। नावुथन्त विना धर्माचार्यमित्यन्पमेधमः ॥८॥ वसुभूतिगुरोराख्यद्भगवन्स्वजना मया । न पारिता बोधयित तान्बोधयितुमर्हसि ॥६॥ इति तत्प्रतिबोधाय सुहस्तौ तहं ययौ । सधातरङ्गिणोप्रायां प्रारेभे धर्मदेशनाम् ॥१०॥