________________
श्रीभद्रबाहुखर्गगमनं ।
२४७
अप्येकया वाचनया मया तानि तानि च । उगौतानि च महाय तत्तथाख्यानपूर्वकम् ॥६॥ आचारागस्य चले हे आद्यमध्ययनद्वयम् । दशवैकालिकस्यान्यदथ मङ्घन योजितम् ॥१०० ॥ इत्याख्याय स्थूलभद्रानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलभद्रो ऽपि वाचनार्थमगाहुरुम् ॥१० १॥ न ददौ वाचनां तस्यायोग्यो ऽसौत्यादिशगुरुः । दौवादिनात्प्रमृत्येषो ऽप्यपराधान्यचिन्तयत् ॥१०॥ चिन्तयित्वा च नह्यागः सारामौति जगाद च । छत्वा न मन्यसे शान्तं पापमित्यवद गुरुः ॥ १ ० ३॥ स्थूलभद्रस्ततः स्मृत्वा पपात गुरुपादयोः । न करिष्यामि भूयो ऽदः क्षम्यतामिति चाब्रवीत् ॥१० ४॥ न करिष्यसि भूयस्लमकार्यदिद पुनः । न दास्ये वाचनां तेनेत्याचार्यास्तमनूचिरे ॥१० ५॥ . स्थूलभद्रस्ततः सर्वसद्धेनामानयगुरुम् । महतां कुपितानां हि महान्तो ऽलं प्रमादने ॥१० ६॥ सूरिः मद वभाषे ऽथ विचक्रे ऽसौ यथाधुना । तथान्ये विकरिष्यन्ति मन्दसत्त्वा अतः परम् ॥१०॥ अवशिष्टानि पूर्वाणि मन्तु मत्पार्श्व एव तत् । अस्यास्तु दोषदण्डो ऽयमन्यशिक्षाकृते ऽपि हि ॥१०८॥ म महेनाग्रहादुनो विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणमुच्छेदो भाव्यतस्तु मः ॥१६॥