________________
परिशिलपर्वणि नवमः सर्गः।
अन्यस्य शेषपूर्वाणि प्रदेयानि लया नहि । इत्यभिग्राह्य भगवान्स्थूलभद्रमवाचयत् ॥११०॥ सर्वपूर्वधरो ऽथामौत्स्थूलभद्रो महामुनिः । न्यवेशि चाचार्यपदे श्रीमता भद्रबाहुना ॥१११ ॥ वौरमोक्षार्षशते सप्तत्य गते मति । भद्रवाहुरपि खामी ययौ स्वर्ग समाधिना ॥११२॥
ततः प्रबोधं जनयन्जनानां नौलोत्यलानामिव शौतरंभिः । सर्वश्रुतस्कन्धनिधानकोशः श्रीस्थलभद्रो व्यहरत्पृथिव्याम् ॥११३॥
इत्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये बिन्दुसार-अशोकश्रीकुणालकथा-सम्पतिजन्मराज्यप्राप्तिस्थलभद्रपूर्वग्रहण-श्रीभद्रबाहवर्गगमनवर्णनो नाम नवमः सर्गः।