SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः। चाणक्यग्रहमन्येधुबिन्दुसारात्सुबन्धुना । वस्तुं ययाचे संभाव्यचाणक्यद्रव्यलिप्सुना ॥१॥ राज्ञादिष्टः प्रविष्टश्च सुबन्धुस्तत्र वेग्मनि । तां पेटां तालकशताबद्धदारां ददर्श च ॥२॥ अचिन्तयच चाणक्यसर्वस्वमिह विद्यते । नान्यथा तालकशतेनेदृशौ स्थानियन्त्रणा ॥३॥ पेटायास्तान्यभज्यन्त तालकानि सुबन्धुना । काराग्रहसमावष्टबन्धाः पादान्दुका दुव ॥४॥ मध्ये दृष्ट्वा समुहं तं चिन्तयामास चेतसि । नियतं रनकोशो ऽयं यस्य रक्षयमौदृशौ ॥५॥ तमपि स्फोटयामास समुझं नालिकेरवत् । लोकोत्तरमहागन्धानमथे गन्धान्ददर्श च ॥६॥ गन्धासुगन्धीनाजम्रो गन्धलुब्धो द्विरेफवत् । मूर्धानं धूनयन्बुच्चैः सुबन्धुर्जातविस्मयः ॥७॥ सनाथमचरैर्भूर्जमथ तत्र ददर्श च । स्था व्यबीजकमिति वाचयामास च खयम् ॥८॥ गन्धानाघ्राय य इमान्न तिष्ठेन्मुनिचर्यया । अन्तकस्य स तत्कालमतिथित्वं गमिष्यति ॥८॥ वाचयित्वाक्षराण्येतान्यतौव विषमाद सः । चाणक्यस्य प्रयोगो ऽय न सुधेति सनिश्चयः ॥१०॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy