________________
चाणक्य चन्द्रगुप्तकथा |
२३१
भवत्विदानीमपि हि युक्तमाख्यातवानसि । तव भोजनलुण्टाकमादास्ये न चिरादहम् ॥ ३८६ ॥ इत्युक्त्वा चन्द्रगुप्तस्य भोजनस्थानभूतले । प्रातस्तरत्नोष्टचूर्ण मसृण चिक्कसादपि ॥३८०॥ भोक्तुं निषले च नृपे भोक्तुमागतयोस्तयोः । पदानि प्रत्यविम्व्यन्त मचूर्णे तत्र भूतले ॥३८८॥ राज्ञि भुक्तोत्थिते तत्र भूतले चणिनन्दनः । पदपङ्क्ति तयोर्दृष्ट्वा चिन्तयामास चेतसि ॥ ३८८ ॥ मानुषः कोऽपि भून्यस्तपाद: मिद्धाञ्जनः खलु । हरते भोजनं स्थालाददृश्योभूय लीलया ॥ ४ ० ० ॥ इति द्वितौयदिवसे चाणक्यो भोजनौकसि । भोजनावसरे धूमं सूचिभेद्यमकारयत् ॥ ४०९॥ प्राग्वद्राज्ञा सहैकत्र स्याले भुञ्जानयोस्तयोः | वाष्पायन्ते स्म नेत्राणि धूमस्तोमेन मर्कता ॥ ४ ० २ ॥ नेत्राचन तयोः सर्वमदृश्यौकारकारणम् । वाष्पवारिभिराकृष्य ड्रागनौयत पङ्कवत् ॥४ ० ३ ॥ अनञ्जनदृशौ तौ तु भुञ्जानौ तत्र भाजने । दृष्टौ नरेन्द्रलोकेन कोपाद्भृकुटिकारिणा ॥४ ० ४ ॥ नाजन्पत्कोऽपि चाणक्यभयान्यक्कारकृत्तयो' । चाणक्यस्तु प्रवचनोलाहौरुरदो ऽवदत् ॥४ ० ५ ॥ पितरावृषिरूपेण युवां हि परमेश्वरौ ।
कृत्वा प्रसादमस्मासु स्वस्मै म्यानाय गच्छतम् ॥४०
६ ॥