________________
चाणक्यचन्द्रगुप्तकथा ।
२२५
२२५
तां तु पर्वतकायैव चन्द्रगुप्तगुरुर्ददौ । तदैव पाणिग्रहणमङ्गलं च प्रचक्रमे ॥३३॥ मंचक्राम विषं तस्यास्तदा पर्वतके ऽपि हि । होमाग्नितापसंभूततल्खेदजलसङ्गमात् ॥३३१॥ मंक्रान्तविषवेगातस्तदा पर्वतको ऽभवत् । शिथिलीभूतसर्वाङ्गश्चन्द्रगुप्तमुवाच च ॥३३२॥ अहं पौतविष व वनुमयुत्सहे नहि । परित्रायस्व हे वत्स म्रियते ऽद्य न मंशयः ॥३३३॥ मान्त्रिका मान्त्रिका वैद्या वैद्या इत्यनुलापिनम् । चाणक्यश्चन्द्रगुप्तं द्राक्कणे भूत्वैवमन्वशात् ॥३३४॥ विनौषधं हि ते व्याधिर्यदि यात्येष यात तत् । कुरु मौनमुपेक्षख स्वस्ति ते स्तादमुं विना ॥३३॥ अर्धराज्यहरं मित्र यो न हन्यात्स हन्यते । इति मार्यो ऽयं वय चेन्मियते पुण्यवानसि ॥ ३ ३ ६ ॥ अनुशिष्यैवमुक्षिप्तमृकुटीभङ्गसज्जया । चाणक्यो वारयामास मौर्य धुर्यो मनौषिणाम् ॥ ३३७॥ ततश्च हिमवत्कूटपार्थिवः प्राप पञ्चताम् । तञ्चन्द्रगुप्तमायाज्यदयमप्यभवत्तदा ॥३३८॥ एवं च श्रीमहावीरमुकर्षशते गते । पञ्चपञ्चाशदधिके चन्द्रगुप्तो ऽभवन्नृपः ॥३३८॥ ___ चन्द्रगुप्तम्य राज्ये तु केऽपि नन्दानुजीविनः । अकार्षः पुरुषाशीय प्रदेश विषमे स्थिताः ॥३४॥