________________
२२२
परिशिष्ठपर्वणि अष्टमः सर्गः। अहो स्त्रिया अप्येतस्या धीमत्त्वमिति चिन्तयन् । चाणक्यो हिमवत्कूटं ततो ऽगात्मनिवेशनम् ॥२८॥ नत्र पर्वतकाख्येन नृपेण सह सौपदम् । चन्द्रगुप्तगुरुचक्रे तत्साहायककाम्यया ॥२९८॥ तमन्यदोचे चाणक्यो नन्दमुन्मूल्य पार्थिवम् । तट्राज्यं संविभज्यावां रहौव भातराविव ॥२८६ ॥ ततः पर्वतकेनापि प्रत्यपद्यत तद्वचः । म हि चाणक्ययुक्तो ऽभूत्सन्नद्ध इव केसरौ ॥३०० ॥ चाणक्यश्चन्द्रगुप्तश्च स च पर्वतको बहिः । उपचक्रमिरे नन्ददेशं माधयितुं ततः ॥३१॥ एक त तैः पुरं रुद्धमपि भङ्गमशाकि न । भिक्षार्थं भिक्षुवेषेण चाणक्यस्तत्र चाविशत् ॥३०२॥ तत्र चिदण्डौ चाणक्यः पुरमध्ये परिश्रमन् । ददर्शानादिकाः सप्त सकला मानदेवताः ॥३० ३॥ चाणक्यो ऽचिन्तयदिमाः सकलाः पाहिदेवताः । नूनमामा प्रभावेण पुरमेतन भज्यते ॥३ • ४॥ मातरः कथमुत्थाप्या इति यावदचिन्तयत् । चाणक्यः पुररोधातैः पौरस्तावदपृच्छयत ॥३० ५॥ कदा हि भगवन्नेतत्पुरमुद्देष्टयियते । श्राख्याहि जानन्ति खलु प्रायः सर्वं भवादृशाः ॥९०६॥ चन्द्रगुप्तगुरुः स्माह हहो श्टणुत नागराः । मातरो यावदचैतास्तावदुद्देष्टनं कुतः ॥३ ० ७॥