________________
परिशियपर्वणि अक्षमः सर्गः।
धातुवादोपार्जितेन द्रविणेन चणिप्रसूः । चक्रे पत्यादिसामग्रौँ नन्दमुच्छेत्तुमुद्यतः ॥ २५३ ॥ ततः मर्वाभिमारेण तया पत्त्यादिसेनया । पाटलीपुत्रनगर चतुर्दिशमवेष्टयत् ॥२५४ ॥ तदन्पसारं चाणक्यशिविरं नन्दभूपतिः । निर्गत्य कुट्टयामाम सर्वमाजकलोलया ॥२५५॥ सचन्द्रगुप्तचाणक्यः समयज्ञः पलायत । नंदापि रचेदात्मानं मत्यात्मनि पुनः श्रियः ॥२५॥ चन्द्रगुप्तं ग्रहीतुं च नन्दो ऽपि वरमादिनः । आदिशन्न महन्ते हि राजानो राज्यकाशिणम् ॥२५॥ जितकाशिनि नन्दे च पुनर्नगरमौयुषि । नागरैरुत्सवश्चक्रे ऽनुरूपः खस्वसम्पदाम् ॥२५८॥ तेषां च मादिनामेकः साद्यश्वेन तरखिना । अदवीयसि देशे ऽगाञ्चन्द्रगुप्तस्य गच्छतः ॥ २५८॥ चाणक्यो ऽपि तमायान्तं दुरादालोक्य मादिनम् । प्रत्युत्पन्नमतिश्चन्द्रगुप्तायैवं समादिशत् ॥२६॥ मरस: पद्मिनीषण्डमण्डितस्थास्य वारिणि । आतिलौलायित कला मनोन्मन्जेश्च महिरा ॥ २६ १॥ ममन्ज चन्द्रगुप्तो ऽथ ट्रागगाधे ऽपि वारिणि । धौरो वारिस्तम्भनिकां विद्यां साधितवानिव ॥२६२॥ खयं तु सरसस्तौरे चाणक्यः सुस्थिरामनः । समाधिनाटनं कृत्वा तस्थौ योगीव निर्ममः ॥२६३॥