________________
चाणक्यचन्द्रगुप्तकथा।
दूतश्च चन्द्रगुप्तो ऽभै रममाणो दिने दिने । विलेभे भूपतिरिव तेभ्यो ग्रामादिकं सदा ॥ २४२ ॥ हस्तौकृत्य योकत्य चाररोह म बालकान् । प्रायो हि भाविनी लक्ष्मौरिङ्गितैरपि सूच्यते ॥२ ४३॥ क्रमयोगेण चाणक्यस्तत्रैवागात्परिभमन् । चन्द्रगुप्तं तथाचेष्टं दृष्ट्वा चातिविमिभिये ॥२४४॥ चाणक्यस्तत्परीक्षार्थमेवमाभाषते स्म तम् । हे राजन्मह्यमपि हि किचनापि प्रदीयताम् ॥२४॥ जगाद चन्द्रगुप्तो ऽपि ब्रह्मन् ग्रामगवौरिमाः ।। यथारचि ग्रहाण वं मद्दत्ता. को निषेत्स्यति ॥२४६ ॥ मित्वा प्रोवाच चाणक्यः कथ ग्रहामि गा इमाः । गोस्वामिभ्यो विभेम्युर्मारयिष्यन्ति ते हि माम् ॥२४७॥ प्रोवाच चन्द्रगुप्तो ऽपि मा भैषौर्ननु ते मया । गावः प्रदत्ता ग्रान्तां वौरभोज्या वसुन्धरा ॥२४॥ चाणक्यो ऽचिन्तयटसावही विज्ञानवानपि । श्रतः पप्रच्छ को उमावित्यर्भकांस्तत्समौपगान् ॥२४८॥ डिम्भकाः कथयामासुः परिव्राजकपुत्रकः । श्रमो मात्रोदरस्यो ऽपि परिव्राजकमाल्टातः ॥२५॥ चाणको ऽपि स्वयं लब्धं तं ज्ञात्वोवाच वालकम् । म एषो ऽस्मि यदीयस्त्वमेहि राज्यं ददामि ते ॥२५॥ राज्यार्थों चन्द्रगुप्तो ऽपि लगति सम तदङ्गुलौ । चाणक्यो ऽपि तमादाय द्राक् पलायिष्ट दम्यवत् ॥२५२॥