________________
२१४
परिशिलपर्वणि अष्टमः सर्गः।
विवाहमिलितो ऽन्यो ऽपि लोकः सर्वो जहास ताम् । मा तु जिहियतो कोणप्रविष्टोद्याहमत्यगात् ॥२०६॥ गताथ चाणक्यग्टहे विषादमलिनानना । सास्यात्तिलकयन्ती मां साञ्चनैरश्रुबिन्दुभिः ॥२ १ ० ॥ तां तु म्बानमुखौं दृष्ट्वा प्रातः कैरविणौमिव । तदुःखदुःखी चाणक्यो ऽभिदधे मधुराक्षरम् ॥२११॥ किं महतो ऽपमानस्ते प्रतिवेशिकतो ऽथवा । पिनवेशकतो यदा यदेवं ताम्यसि प्रिये ॥२१२॥ मा वाख्यातमनौशाभूदपमानकदर्थिता । पत्युरत्यन्तनिर्बन्धादाख्याति सम तथापि तत् ॥२ १३॥ चाणक्यो ऽपि हि विज्ञातहिणौदुःखकारणः । द्रविणोपार्जनोपायं निरपायमचिन्तयत् ॥२१ ४ ॥ पाटलीपुत्रनगरे नन्दराजो द्विजन्मनाम् । विशिष्टां दक्षिण दत्ते तदर्थ तच याम्यहम् ॥ २ १५॥ इति निश्चित्य तत्रागात्मविश्य च नृपौकमि । अग्रे दत्तेम्वासनेषु निषसादादिमासने ॥२ १६॥ चाणक्येन तदाक्रान्तमासनं प्रथमं सदा । नन्द एव ह्यलंचके तस्य भद्रासनं हि तत् ॥२१॥ नन्देन च महायातो नन्दपुत्रस्तदावदत् । ब्राह्मणो निषमादेष छायामाक्रन्य भूपतेः ॥२१॥ राज्ञो दास्यैकया प्रोचे चाणक्यः सामपूर्वकम् । मिषौदास्मिन्दितौयस्मिन्नासने लमहो विज ॥२१८॥