________________
चाणक्यचन्द्रगुप्तकधा।
२१३
राज्यारोण मत्पुत्रो मा भून्नरकभागिति । अघर्षयत्तस्य दन्तान्पौडामगणयंचणौ ॥१८८॥ स मुनिभ्यस्तदण्याख्यन्मुनयो ऽप्येवमूचिरे । भाव्येष विम्वान्तरितो राजा रदनधर्षणात् ॥ १६६॥ चपी चाणक्य इत्याख्यां ददौ तस्याङ्गजन्मनः । चाणक्यो ऽपि श्रावको भूत्सर्वविद्याधिपारगः ॥२०॥ श्रमणोपासकत्वेन म मन्तोषधनः सदा । कुलौनब्राह्मणस्यैकामेव कन्यामुपायत ॥२ ० १॥ चाणक्यभार्या वन्येद्युर्माटधाम जगाम मा । बभूव तत्र तज्ञातस्तदोदाहमहोत्सवः ॥
२२॥ तस्मिन्महोत्सवे तस्याः स्वमारो ऽन्याः समाययुः । वस्त्रानकारशालिन्यो महेभ्यपतिका हि ताः ॥२३॥ ताचित्रवाहनाः सर्वा' सर्वा दासौभिरावृताः । मच्छत्रप्रक्रियाः सर्वाः सर्वाः सम्युनमौलथः ॥२ ० ४॥ भर्वा दिव्यागरागिण्य: सर्वास्ताम्बूलपाणयः । सर्वा अपि श्रियो देव्या वैक्रिया इव मूर्तयः ॥२०५॥ युग्मम्॥ चाणक्यग्रहिणी त्वेकवराशिनिशि चाहि च । विशुद्धशद्धसरिकाभरपा जीर्णकञ्चका ।।२०६॥ जौर्णको सम्भोत्तरीया ताम्बून्नविकलानना । वपुर्मलैकसंजाताङ्गरागा अपुकुण्डला ॥ २० ॥ कर्मणा कर्कशकरा मदा मलिनकुन्तला । नाभिः श्रीमदृढाभिर्भगिनौभिरहस्यत ॥
२८॥ । त्रिभिर्विशेषकम् ॥