________________
२१०
परिशिषपर्वणि अछमः सर्गः।
अधान्यतीचारभवान्युन्मूलयितमात्मनः । यास्यामि गुरुपादान्ते धर्मलाभस्तवानघे ॥१६॥ कोशापि तमुवाचै मिथ्या मे दुष्कृतं त्वयि । ब्रह्मवतस्थयाप्येवं मया यदमि खेदितः ॥१६६॥ आशातनेय युग्माकं बोधहेतोर्मया कृता । क्षन्तव्या मा गुरुवचः श्रयध्वं यात सत्वरम ॥१६॥ इच्छामौति वदन गत्वा सम्भूतविजयान्तिके । ग्टहौवालोचना तौक्षणमारचार पुनस्तपः ॥१६॥ समाधिमन्तो मरणं साधयित्वा परेद्यवि । सम्भूतविजयाचार्यपादाः स्वर्ग प्रपेदिरे ॥१६॥
राज्ञा प्रदत्ता कोशापि तुष्टेन रथिने ऽन्यदा । राजायत्तेति शिवाय विना रागेण सा तु तम् ॥१७॥ स्थूलभद्रं विना नान्यः पुमान्को ऽपौत्यहर्निशम् । सा तस्य रथिनो ऽभ्यणे वर्णयामास वर्णिनौ ॥१७॥ रथी गत्वा ग्टहोद्याने पर्यङ्के च निषद्य सः । तन्मनोरञ्जनायेति स्वविज्ञानमदर्शयत् ॥१७२॥ माकन्दलुम्बौं बाणेन विव्याध तमपौषुणा । पुढे ऽन्येन तमप्यन्येनेत्याहस्तं शराख्यभृत् ॥१७॥ वृन्नं छित्त्वा चुरप्रेण वाणश्रेणिमुखस्थिताम् । लुम्बौं खपाणिनाश्थ्यासौनम्तस्यै स आर्पयत् ॥ १७४॥ इदानौं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशिं तस्योपरि ननत च ॥१७॥