________________
परिशिलपर्वणि असमः सर्गः। तद्भावजो ऽथ वेमैत्यामात्यः औयकमब्रवीत् । राज्ञो ऽस्मि ज्ञापित: केनाप्यमको विद्विषनिव ॥५५॥ असावकमादमाकं कुलक्षय उपस्थितः । रक्ष्यते वत्स कुरुषे यद्यादेशमिमं मम ॥५६॥ नमयामि यदा राजे शिरश्छिन्द्यास्तदामिना । अभक्तः स्वामिनो वध्यः पितापौति वदेस्ततः ॥५॥ यियासौ मयि जरमाप्येवं याते परासुताम् । त्वं मत्कुलर हस्तम्भो भविष्यसि चिरं ततः ॥५८॥ श्रीयको ऽपि स्दन्नेवमवदगड्दस्वरम् । तात धोरमिदं कर्म श्वपचो ऽपि करोति किम् ॥५६॥ अमात्यो ऽप्यनवौदेवमेवं कुर्वन्विचारणाम् । मनोरथान्पूरयमि वैरिणामेव केवलम् ॥ ६ ॥ राजा यम दुवोदण्डः सकुटुम्ब न हन्ति माम् । यावत्तावन्ममैकस्य च्याद्रक्ष कुटुम्बकम् ॥६१॥ मुखे विषं तालपुट न्यस्य नस्यामि भूपतिम् । शिरः परासोम छिन्द्याः पिढहत्या न ते ततः ॥६॥ पित्रैव बोधितम्तत्म प्रतिपेटे चकार च ।
शुभोदाय धौमन्तः कुर्वन्यापातदारुणम ॥६३॥ भवता किमिद वत्स विहितं कर्म दुष्करम् । समन्भममिति प्रोको नृपेण श्रीयको ऽवदत् ॥६४॥ यदैव खामिना ज्ञातो द्रोह्ययं निहतस्तदा । भर्टचित्तानुसारेण भृत्यानां हि प्रवर्तनम् ॥६५॥