________________
शकटालमरणं ।
विप्रतारयितु लोकं मायमत्र चिपत्यमौ ।
द्रव्यं प्रातः पुनर्गृह्णातौत्यूचे सचिवो नृपम् ॥ ४४ ॥ माधु ज्ञातमिदं कत्यालपन्मन्त्रिपुङ्गवम् । विस्मयस्मेरनयनः स्ववेश्मागान्महीपतिः ॥ ४५ ॥ श्रमर्षणो वररुचिः प्रतौकार विचिन्तयन् । गृहस्वरूपं सचिवस्यापृच्छच्चे टिकादिकम् ॥ ४६ ॥ तस्याथ कथयामास काचित्मविय्यदः । भूपतिः श्रौयकोद्वाहे भोच्यते मन्त्रिवेश्मनि ॥४७॥ सज्ज्यते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा । शस्त्रप्रियाणा राज्ञां हि शस्त्रमाद्यमुपायनम् ॥४८॥ समासाद्य च्छलजन्तच्छलं वररुचिस्ततः । चणकादि प्रदायेति डिम्भरूपाण्यपाठयत् ॥ ४८ ॥ न वेत्ति राजा यदसौ शकटालः करिष्यति । व्यापाद्य नन्दं तद्राज्ये श्रीयकं स्थापयिष्यति ॥ ५० ॥ स्याने स्याने पठन्ति स्म डिम्भा एवं दिने दिने । जनश्रुत्वा तदश्रौषौदिति चाचिन्तयन्नृपः ॥ ५१ ॥ वालका यच्च भाषन्ते भाषन्ते यच योषितः । श्रौत्पातिकौ च या भाषा सा भवत्यन्यथा नहि ॥५२॥ तत्प्रत्ययार्थ राजाथ प्रेषितो मन्त्रिवेश्मनि ।
१६६
पुरुषः मर्वमागत्य यथादृष्ट व्यजिज्ञपत् ॥ ५३ ॥ ततश्च सेवावमरे मन्त्रिण: ममुपेयुषः । प्रणामं कुर्वतो राजा कोपात्तस्यौ पराङ्मुखः ॥५४॥