________________
पाकटालमरण।
मन्त्र्यप्यूचे मया देव प्रशसा नास्य निर्मिता । काव्यानि परकीयाणि प्राशसिषमहं तदा ॥२२॥ पुरो नः परकाव्याणि खकौकृत्य पठत्ययम् । किमेतत्सत्यभावेनेत्यभाषत नृपस्ततः ॥२३॥ एतत्पठितकाव्यानि पठन्तौलिका अपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवो ऽपि च ॥२४॥ यक्षा यक्षदत्ता भूता भूतदत्तैणिका तथा वेणा रेणेति सप्तामन्प्राज्ञाः पुत्र्यस्तु मन्त्रि पाः ॥२५॥ ग्रहाति न्यायमौ तामां सदनं तथेतराः । द्विव्यादिवारक्रमतो ग्टहन्ति स्म यथाक्रमम् ॥२६॥ राज्ञः समीपं सचिवो द्वितीये ऽगि निनाय ताः । तिरस्करिपयन्तरिताः समुपावेशयच्च सः ॥२७॥ अष्टोत्तरशतं भोकान्स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिम्तास्तु यथाज्येष्ठमनूचिरे ॥२८॥ ततो वररुचे सष्टो राजा दान न्यवारयत् । उपायाः मचिवानां हि निग्रहानुग्रहक्षमाः ॥२८॥ ततो वररुचिर्गत्वा यन्त्र गङ्गाजले न्यधात् । तन्मध्ये वस्त्रबद्ध च दौनारशतमष्टयुक् ॥३०॥ प्रातर्गङ्गाममौ स्तुत्वा यन्त्रमाकामदहिणा । दौनारास्ते च तत्पाणावुत्पत्य न्यपतस्ततः ॥३१॥ म एवं विधे नित्य जनस्तेन विसिभिये । तच श्रुत्वा जनश्रुत्या राजाशंसत मन्त्रिणे ॥३२॥