________________
परिशिष्यवणि अष्टमः सर्गः ।
तत्र चामोदररुचिर्नाम द्विजवराग्रणीः । कवीनां वादिना वैयाकरणानां शिरोमणिः ॥११॥ खयंकृतेर्नवनवैरष्टोत्तरशतेन सः । वृत्तः प्रवृत्तो ऽनुदिनं नृपावलगने सुधीः ॥१२॥ मिथ्यादृगिति त मन्त्री प्रशशंस न जातचित् । तुष्टो ऽप्यस्मै तुष्टिदान न ददौ नृपतिस्ततः ॥१३॥ ज्ञात्वा वररुचिस्तत्र दानाप्रापणकारणम् । पाराधयितुमारेभे रहिौं तस्य मन्त्रिणः ॥१४॥ संतुष्टया तयान्येद्युः कार्य पृष्टो ऽब्रवौदिदम् । राज्ञः पुरस्तान्मे काव्य तव भर्ता प्रशसत् ॥१५॥ तया तदुपरोधेन तद्विज्ञप्तो ऽवदत्पतिः । मिथ्यादृष्टरमुख्याहं प्रशंसामि कथं वचः ॥१६॥ तयोनः माग्रह मन्त्री तत्तथा प्रत्यपद्यत । अन्धस्त्रीबालमूर्खाणामाग्रहो बलवान्खलु ॥१७॥ राज्ञः पुरस्तात्यठतः काव्यं वररुचेस्ततः । अहो सुभाषितमिति वर्णयामाम मन्त्रिराट् ॥१८॥ दौनारशतमष्टाग्र ततो ऽस्मै नृपतिर्ददौ । राजमान्यस्य वाचापि जौव्यते ह्यनुकूलया ॥१६॥ दौनाराष्टोत्तरशते दीयमाने दिने दिने । किमेतद्दीयत इति भूपं मन्त्री व्यजिज्ञपत् ॥२०॥ अथोचे नृपतिर्मन्त्रिन्दमो ऽस्मै त्वत्प्रशंसया । वयं यदि स्वयं दद्मो दद्मः कि न पुरा ततः ॥२१॥