________________
परिशिठपर्वणि सप्तमः सर्गः।
स्वस्थान कल्पको ऽथागात्माधिविग्रहिकः स तु । तनावमविटपौवापन्नः स्खशिबिर ययौ ॥१३२॥ स सन्धिविग्रहपुमानिजैः पृष्टो विषादभाक् । अवोचदत्यसम्बन्धप्रलापी कल्पकद्विजः ॥१३३॥ पुनः पुनश्च तैः पृष्टो न स किंचिदवोचत । स हि जिहाय तद्भावं नाजासिषमिति ब्रुवन् ॥१३४॥ मिलितः कल्पकस्यायमपौति कृतनिश्चयाः । ते ऽथ सामन्तराजानः पलायन्त दिशो दिशम् ॥१३५॥ ततः पलायमानानां तेषां कल्पकशासनात् । हत्यश्वरत्नकोशादि जगाहोच्छिद्य नन्दराट् ॥१३६॥ नन्दो ऽपि तं निजग्राह प्राक्तनं दुष्टमन्त्रिणम् । भक्तस्य कल्पकस्यायमनर्थदिति क्रुधा ॥ १३७॥
नन्दश्रियां रक्षणमौविदलः सुधौनयोपायनदीनदौनः ।
मां कल्पको नन्दनरेश्वराज्ञानियन्त्रितां मन्निवरश्चकार ॥१३८॥
इत्याचार्यश्री हेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये कल्पकामात्यसकौतनो नाम सप्तमः सर्गः ॥