________________
कल्पकामात्यः ।
सान्धिविग्रहिकः मो ऽथ विद्वानपि सुधौरपि । न तदाशयमजासीदीदृशस्तु तदाशयः ॥ १२१ ॥ यथेचुयष्टिर्मूलेन प्रान्तेन च विवर्धते ।
उभाभ्यामेव सन्धिभ्यां तथा चत्रियसन्ततिः ॥ १२२ ॥ तत्र चैकः सत्यसन्धिर्यत्रोक्तं नान्यथा भवेत् ।
प्रपञ्चमन्धिरपरो मायया यः प्रतन्यते ॥ १२२ ॥ अविश्वासेन वो नन्दे मत्यसन्धेर्न गोचरः ।
१६३
13
प्रपञ्चमन्धिस्तु कथं भावौ वो मयि तद्विदि ॥ १२४ ॥ निःमन्धिवन्धास्तद्यूयमुपजीव्या भविष्यथ । निकृत्तमूलप्रान्तेचयष्टिवन्नन्दभूपते. ॥१२५॥
पुनश्च तत्प्रदेशस्याभौर्या मूर्धन्यदर्शयत् । दातां दधिस्थाल कल्पको हस्तसज्ञया ॥ १२६ ॥ प्राग्वद्भावार्थमज्ञासौत्प्रधानपुरुषो न सः । कन्पकामात्यद्दद्द्यभावार्थो ऽयमभूत्पुनः ॥ १२७॥ त्वत्पचमंहतिस्थाली मद्दोर्दण्डाहता यदि ।
तद्वः स्याद्विटकाकाई विकीर्ण दधिवलम् ॥ १२८॥ पुनः स्वनावा तन्नावं कल्पकस्त्रिः प्रदक्षिणाम् । चकार तदभिप्रायं तत्रापि न विवेद सः ॥ १२८ ॥ भावार्थत्वेष ष मनावा यथा नौरावृता तव । तथास्मतेजमा तेजो भवतामावरिव्यते ॥ १३० ॥ मात्रयेऽपि भावार्थमजान कल्पकस्य सः । ऊहापोहपरस्तस्थौ व्यात्तास्यः काकपोतवत् ॥ १३१ ॥