________________
परिशिष्टपर्वणि सप्तमः सर्गः। भूयांसस्तनुजन्मानो बभूवुः कल्पकस्य तु । प्रायेण पुचवन्तो हि भवन्ति परमाईताः ॥८८॥ सारेभे ऽन्यदैकस्य सूनोरुवाहमङ्गलम् । निमन्त्रयितुमैच्छच्च नत्र सान्तःपुरं नृपम् ॥८६॥ स राज्ञः खागतचिकौर्मुकुटच्छत्रचामरान् । प्रचक्रमे कारयितुमन्यच्चामै यदहति ॥६॥ भ्रष्टामात्याय सा चेटी कथयामास तत्तथा । लब्धो ऽवसर इत्याशु सो ऽपि भूपं व्यजिज्ञपत् ॥११॥ न भाम्प्रतममात्यो ऽस्मि न मान्यो ऽस्मि तथापि हि । कुलौनो ऽस्यतिभनो ऽस्मोत्याख्यामि स्वामिनो हितम् ॥२॥ कल्पकेन यदारब्ध श्टणु बत्प्रियमन्त्रिण । छत्तादिराच्यालङ्कारान्कारयन्नस्ति सो ऽधुना ॥८३॥ इयता कथितेनेशः वयं वेत्तु तदाभयम् । सिक्थेनापि द्रोणपाक जानन्ति हि मनौषिणः ॥६४॥ ग्रासेन स्वामिदत्तेन वर्धितो ऽस्मीति वन्यदः । न पुनः पदमापत्न्य मात्सर्य मम कल्पके ॥६५॥ कदाचिन्मत्सरेणाहमसत्यमपि हि ब्रुवे । सत्यं तत्तु चरैर्विद्धि नृपा हि चरचक्षुषः ॥६६॥ प्रेषिताश्च चरा राजा गत्वा कल्पकसद्मनि । दृष्ट्वा च तत्तदाख्यातमाख्यान्ति स्म महोभुजे ॥६७ ॥ ततश्च सकुटुम्बो ऽपि कल्पको नन्दभूभुजा । सद्यो ऽन्धकूपकारायामक्षेप्याक्षेपपूर्वकम् ॥ ८॥