________________
परिशिपर्वणि सप्तमः सर्गः।
न नन्दः प्राप तच्छिद्रं नित्यमन्वेषयन्नपि । महात्मना निरौहाणां तद्धि प्रायेण दुर्लभम् ॥४४॥ अन्यदा कल्पकग्रहदाररथ्यानिवासिनम् । राजा रजकमात्मीयं पप्रच्छाहय धौनिधिः ॥४५॥ ब्राह्मणः कल्पको नाम यस्तव प्रातिभिमकः । वसनानि तदीयानि त्वं चालयसि किं न वा ॥४६॥ चालयामौति रजकेनोके प्रोवाच. तं नृपः । तदानौं तानि वस्त्राणि धर्तव्यान्यर्पय स्म मा ॥४७॥ प्रमाणमादेश इति विज्ञप्य रजको ययौ । इतश्च समयः कौमुद्युत्मवस्य समाययौ ॥४८॥ कल्पकं च ग्रहित्यूचे वस्त्ररत्नान्यमूनि मे। गजनिजकेनाद्य निर्णजय मनोरम ॥ ४६ ॥ यथातिशयचोक्षाणि सच्छायान्यंशकान्यहम् । धूपयित्वा परिदधे कौमुदौपर्ववासरे ॥ ५० ॥ कल्पको ऽचिन्तयच्चैवमासन्ने पर्ववासरे। अन्यस्य भाटिलोभेन रजको राजवर्चसौ ॥५१॥ अर्पयेदरवस्त्राणि नार्पयिष्यति मे पुनः । ससंक्लेशं परिभवं तन्त्र क्रेये खपाणिना ॥५२॥ युग्मम् ॥ विधेकलोचनेनैवं प्रेक्ष्य प्रेधावतां वरः ।। उपैशिष्ट वच: पल्याः स्त्रीमुखाः कृतिनो न हि ॥५२॥ अत्याग्रहमहौतस्तु तस्या वासांसि कल्पकः । रजकस्यार्पयत्तस्य स्त्रीग्रहो बलवान्खलु ॥५४॥