________________
कल्पकामात्यः ।
१८५
प्रायान्तं कल्पकं दृष्ट्वा पूच्चकार च स विजः । य आकर्षति मे पुत्रौं तस्मायेव ददाम्यहम् ॥३३॥ कन्पको ऽपि हि तत्काल दयोल्लिखितमानमः । तामाचकर्षाश्रुत्वैव वाचं तत्पितरुत्तराम ॥३४॥ तत्पितोवाच भत्कन्यामिमामुदह कल्पक । कूपिकाकर्षकायोचैर्मयैषा कल्पिता यतः ॥३५॥ एतस्याः सम्प्रदानं च श्रुत्वा संसोढवानसि । अनिषिद्धं हनुमतमिति न्यायो ऽपि वर्तते ॥३६॥ स्रष्टेव विद्यास्थानानां त्वमेव न्यायवित्तमः । सत्यसन्धो ऽसि चातस्मं तत्कुरुष्व यदर्हति ॥३७॥ छलितो बुद्धिशयाई किं करोमोति कल्पकः । नितम्विनौनिरौहो ऽपि तामुद्दोढुममन्यत ॥३८॥ कलाकलापजलधिकुम्भजन्माथ कल्पकः । आयुर्वेदोदितोषध्योन्जाघौ कृत्योदुवाह ताम् ॥३६॥
कल्पकं पण्डित बुद्धिमनं श्रुत्वाथ नन्दराट । बाहय प्रार्थयांचके ममामात्यत्वमाश्रय ॥४॥ जजन्य कल्पको राजन्यासाच्छादनमात्रकम् । विहाय नान्यमधिकं वाञ्छाम्यपि परिग्रहम् ॥ १॥ धार्मिकाणां सशूकानां नहि निर्वहति क्वचित् । राजनमात्यव्यापारः पयाप्तं तदनेन मे ॥४२॥ इत्युक्त्वा राज प्राज्ञां तामवज्ञायैव कल्पकः । जगाम चक्रे च नृपम्तच्छिद्रान्वेषपोद्यमम् ॥ ४३॥