________________
नन्दराज्यलाभः।
१७६
तत्प्रभृत्येव मेदिन्यामभव्यानां शिरोमणिः । अभिधानेन म ख्यात उदायिनृपमारकः ॥२३॥
दतच तत्रैव पुरे दिवाकौतरमत्सुतः । एकस्य गणिकाकुक्षिजन्मा नन्दो ऽभिधानतः ॥२३१॥ म नापितकुमारस्तु प्रभातसमये तदा । खैरन्तः पाटलीपुत्रं ददर्श परिवेष्टितम् ॥ २ ३ २ ॥ उपाध्यायाय त खप्नं नन्द श्राख्यत्प्रबोधभाक् । उपाध्यायो ऽपि तवेदी तं च निन्ये स्ववेश्मनि ॥२३३॥ म प्रौतिभागलंचक्रे नन्दमाभरणादिभिः । निजां दुहितरं तेन परिणाययति स्म च ॥२३४॥ नवं जामातरं नन्दं याप्ययाने ऽधिरोप्य तम् । पुरे परिभ्रमयितुमुपाध्यायः प्रचक्रमे ॥२३५॥ उदाय्यपुत्रगोत्री हि परलोकमगादिति । तत्रान्तरे पञ्चदिव्यान्यभिषितानि मन्त्रिभिः ॥२३६॥ पट्टहस्तौ प्रधानाश्वछत्रं कुम्भो ऽथ चामरौ । पञ्चाप्यमूनि दिव्यानि भ्रमू राजकुले ऽखिले ॥२३७॥ ततश्च तानि दिव्यानि वही राजकुलाद्ययुः । स नन्दो याप्ययानस्यो नवोढो ददृशे र तैः ॥२३८॥ पट्टहस्ती शारदाब्दशब्दसोदरगर्जितः । मद्यो नन्दं पूर्णकुम्भेनाभ्यषिञ्चदुदुत्करः ॥२०६॥ तमुत्पाद्य निजम्कन्धे मिन्धुरः सो ऽध्यरोपयत् । ज्यो ऽहेषन इर्षाच्च प्रस्तुवन्निव मङ्गलम् ॥२४॥