________________
१७८
परिशिलपर्वणि षष्ठः सर्गः। हन्तान्यो यदि तत्चुनः प्रथमं व्याहरेत्खलु । स महामाहसं कृत्वात एवागाददर्शनम् ॥२१॥ वैरौ वा वैरिपुत्रो वा वैरिणा प्रहितो ऽथवा । को ऽपि मायावतोभय विश्वस्तमवधौनृपम् ॥ २२ ॥ राज्ञश्च पिटवत्सूरिः सूरे राजापि पुत्रवत् । नूनं स मृरिणा ध निषेधु वा प्रचक्रमे ॥२ २१॥ तपाचामतनुः सूरिरपि तेन दुरात्मना । तथा कुर्वन्मुव्यपाति न्यपाति च नरेन्द्रवत् ॥२२२॥ युग्मम् ॥ विनयच्छद्मना सूरिरपि तेन ह्यवञ्चि मः। ततस्तस्मै ददौ दौवां धूर्तेः को न हि वश्यते ॥ २ २३॥ नष्टं निभायां तं प्रातः प्रापुर्नुपभटा नहि । क्रमेणापि हि यस्यतत्यनः क्रमशतेन सः ॥२२४॥ ततः शरीरमस्कार राजः सरेश्च चक्रिरे । प्रधानपुरुषास्तारं विलपन्त उदश्रवः ॥२२॥ उदायिमारकः पापः मो ऽगादुज्जयिनौं पुरोम् । पाख्यच्चोज्जयिनीभर्तुर्यथोदाथिवधः कृतः ॥२२६॥ अवन्तौगो ऽवदत्पाप यः कालेनेयतापि हि । परिव्रज्यां ग्रहोवापि स्थित्वापि मुनिसन्निधौ ॥२२७॥ अहर्निशं च धर्मोपदेशाऽश्रुत्वापि दुष्टधीः । अकार्षीरोदृश कर्म म त्वं मे स्याः कथं हितः ॥२२८॥ युग्मम् अद्रष्टव्यमुखो ऽसि त्वं पापापमर सत्वरम् । इति निर्भत्स्य तं राजा नगरानिरवासयत् ॥२२८॥