________________
१७६
परिशिष्ठपर्वणि षष्ठः सर्गः ।
。。 ||
उदायिनो राजकुले प्रवेशार्थी ततश्च सः । उपाददे परिव्रज्यां सूरेरेकस्य मन्निधौ ॥ १८७॥ माथयाप्यनतौचारं म व्रतं पालयन्मुनीन् । तथा ह्याराधयन्ते हि यथा तन्मयतां ययुः ॥ १८८ ॥ दम्भप्रधानं श्रामण्यं न तस्थालचि केनचित् । सुप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति ॥ १८९॥ उदायो त्वाददे ऽष्टम्यां चतुर्दश्यां च पौषधम् । श्रवात्सुः सुरयो धर्मकथार्थं च तदन्तिके ॥ २ श्रन्यदा पौषधदिने विकाले ते तु सूरयः । प्रतिराजकुलं तेल्लुर्मायावौ यैः स दौचितः ॥ २०९ ॥ गृह्यतामुपकरणं यामो राजकुले वयम् । भोः क्षुल्लकेत्यभिदधुः सर्भरम्भं च सूरयः ॥ २०२ ॥ स एव मायाश्रमणः कुर्वाणो भक्तिनाटितम् । उपादायोपकरणान्यग्रे ऽभूच्छललिया ॥ २०३॥ चिरसङ्गोपितां कङ्कमयोमादाथ कर्चिकाम् । प्रच्छन्नां धारयामास म जिघांसुरुदा यिनम् ॥ २०४ ॥ चिरप्रव्रजितस्यास्य शमः परिणतो भवेत् । इति तेनैव सहितः सूरी राजकुलं ययौ ॥२०५॥ धर्ममाख्याय सुषुपुः सूरयः पार्थिवो ऽपि हि । स्वाध्यायखिन्नः सुष्वाप प्रतिलिख्य महीतलम् ॥ २०६॥
दुरात्मा जाग्रदेवास्थात्म मायाश्रमणाः पुनः । निद्रापि नैति भौतेव रौद्रध्यानवतां नृणाम् ॥२०७॥