________________
परिशिष्ठपर्वणि षष्ठः सर्गः।
तदत्र पाटलितरो' प्रभावमवलख्य च । दृष्ट्वा चाषनिमित्तं च नगरं संनिवेश्यताम् ॥१७५॥ एको नैमित्तिकश्चीचे मर्वनैमित्तिकाजया । दातव्यमाशिवाशब्द सूत्रं पुर निवेशने ॥१७६ ॥ प्रमाणं यूयमित्युक्त्वा तानिमित्तविदो नृपः । अधिनगरनिवेश सूत्रपातार्थमादिशत् ॥१७७ ॥ पाटलौं पूर्वतः कृत्वा पश्चिमां तत उत्तराम् । ततो ऽपि च पुन' पूर्वी ततश्चापि हि दक्षिणाम् ॥१८॥ शिवाशब्दावधि गत्वा ते ऽथ सूत्रमपातयन् । चतुरस्रः सन्निवेशः पुरस्यैवमभूत्तदा ॥१७८॥ युग्मम् ॥ तत्राङ्किते भूप्रदेशे नृपः पुरमकारयत् । तदभृत्पाटलौनाना पाटलीपुत्रनामकम् ॥१८॥ पुरस्य तस्य मध्ये तु जिनायतनमुत्तमम् । नृपतिः कारयामास शाश्वतायतनोपमम् ॥१८॥ गजाश्वशालाबहुलं नृपप्रासादसुन्दरम् । विशालशालमुद्दामगोपुरं मौधबन्धुरम् ॥१८२॥ पण्यशालासत्रशालापौषधागारभूषितम् । भूभुजा तदलंचक्रे शुभे ऽङ्ग्युत्सवपूर्वकम् ॥१८३॥ युग्मम् ॥ राजा तत्राकरोद्राज्यमुदाय्युदयभाक् श्रिया । खं विक्रममिवाखण्डं तन्वानो धर्ममाईतम् ॥१८४॥ अहन्देवो गुरुः माधुर्धर्मश्चाईत इत्यभूत् । देवतत्त्वं गुरुतत्त्वं धर्मतत्त्वं च तद्धदि ॥१८॥