________________
१६८
परिशिष्यर्वणि षष्ठः सर्गः।
इति तस्याः स्वप्नमध्ये नरकावामदारुणान् । छेदभेदादिदुःखारिटन्नारकिकाकुलान् ॥११॥ पातकेनैव संरुद्धानन्धकारापदेशतः ।। दर्दन्दिर्शयामास नरकान्स सुरो ऽखिलान् ॥१११॥
॥ युग्मम् ॥ वर्तिकेव श्येनमुक्ता मृगौव दवनिर्गता । सतौव परपुरुषकरस्पर्शपलायिता ॥११२॥ सुसाध्वौवायाततपोतौचारविधुरोकृता । मा दृष्टनरका भौत्या प्रबुद्धवापि ह्यकम्पत ॥ ११३ ॥
॥ युग्मम् ॥ बिभ्यती मा तु नरकं गतेव नरकेक्षणात् । अखिलं कथयामास तं स्वप्नं पत्युरग्रतः ॥११४ ॥ क्षेमेच्छुः पुष्पचलायाः पुष्पचलनृपो ऽपि हि । निपुण कारयामास शान्तिक शान्तिकोविदः ॥११५॥ म तु पुष्यवतौजौवदेवस्तद्धितकाम्यया । तादृशानेव नरकारात्रौ रात्रावदर्शयत् ॥११६॥ अथ पाषण्डिनः सर्वानाजुहाव महीपतिः । परिपप्रच्छ च बध्वं कीदृशा नरका इति ॥ ११७॥ गर्भवासो गुप्तिवासो दारिद्यं परतन्त्रता । एते हि नरकाः साक्षादित्याख्यंस्ते ऽल्पमेधसः ॥ ११८॥ मा दुर्गन्धमिवाघ्राथ कुर्वतो मुखमोटनम् । निजखनविसंवादिवचनांस्तान्व्यमर्जयत् ॥११८॥