________________
erfontyत्रकथा |
१६७
मित्राणि मन्त्रिण: पौरानथ पप्रच्छ भूपतिः । अन्तःपुरे यदुत्पन्नं रत्नं तस्य क ईश्वरः ॥ ९ ॥ ते प्रोचुर्देशमध्ये ऽपि रत्नमुत्पद्यते हि यत् । तस्येश्वरो नरपतिः का कथान्तःपुरे पुनः ॥ १०० ॥ यद्यदुत्पद्यते रत्नं स्वदेशे तढिलापतिः ।
यथेच्छं विनियुञ्जीत को हि तस्यास्तु बाधकः ॥ १०१ ॥ तेषां भावानभिज्ञानामालख्य वचनं नृपः । सम्वन्धं घटयामास निजदारकयोस्तयोः ॥ १०२ ॥
तस्य राजी पुष्पवती श्राविकात्तया नृपः । श्रवार्यत तथा कुर्वन्न तु तामप्यजौगणत् ॥१०३॥ ततश्च पुष्पचूलश्च पुष्पचूला च दम्पती |
धर्म सिषेवाते नितान्तमनुरागिणौ ॥ १०४ ॥ क्रमेण पुष्पकेतौ तु कथाशेषत्वमीयुषि । पुष्पचूलो ऽभवद्राजा राजमानो ऽमलैर्गुणैः ॥ १०५ ॥ तदत्यं वारयन्तौ तदापत्यापमानिता । राजौ पुष्पवतो जातनिर्वेदा व्रतमाददे ॥ १०६ ॥ मा विपद्य सरो जज्ञे प्रव्रज्यायाः प्रभावतः । प्रव्रज्या चेन्न मोचाय तत्खर्गाय न संशयः ॥ १०७ ॥ स देवो ऽवधिनाद्राचीत्तामकृत्य नियोजिताम् । निजां दुहितरं स्नेहादिति चाचिन्तयन्त्तराम् ॥ १०८॥ मम प्राग्जन्मनि प्राणप्रियेयं दुहिताभवत् ।
तत्तथा कर घोरे नरके न पतेद्यथा ॥ १०८ ॥