________________
१६६
परिशिष्ठपर्वणि षष्ठः सर्गः ।
लाल्यमानः कुटुम्बेन वर्धमानो ऽनिकासुतः । चतुर्वर्गार्जनसुखं प्रपेदे मध्यमं वयः ॥८८॥ भोगानपास्य तृणवद्यौवने ऽपि स धोधनः । जयसिंहाचार्यपार्श्वे परिष्यामुपाददे ॥८८॥ स खड्गधारातौन व्रतेन व्रतिनां वरः । श्रात्मनो दारयामास दारुणान्कर्मकण्टकान् ॥ ० ॥ तपोग्निनातिदीप्रेण दग्ध्वा कर्ममहामलम् । श्रग्निशौचांश्कमिव स श्रात्मानमशोधयत् ॥८१॥ स क्रमेण परिणतचरित्र ज्ञानदर्शनः । श्राचार्यवर्यधुर्यो ऽभूत् गच्छाम्भोजभास्कर ॥ २ ॥ स मुनिः सपरीवारो वृद्धत्वे विहरन्ययौ । नगरं पुष्पभद्राख्यं गङ्गातटविभूषणम् ॥८३॥ तत्राभूद्भूपतिः पुष्पकेतुस्तस्य तु वल्लभा । मौनकेतोरिव रतिः पुष्यवत्यभिधानतः ॥ ४ ॥ पुष्पवत्या अभूतां च पुत्रः पुत्रौ च युग्मज । पुष्पचूलः पुष्पचूला चेति नाम तयोरभृत् ॥८५॥ सहैव वर्धमानौ तौ रममाणौ सहैव च । परस्परं प्रीतिमन्तावुभावपि वभूवतुः ॥ ६ ॥ दध्यौ च राजा यद्येतौ दारकौ हलौ मिथः । वियुज्येते तदा नूनं मनागपि न जौवतः ॥८७॥ वियोगमनयोश्चाहमपि सोढुमनीश्वरः ।
मिथस्तदनयोरेव युक्रं वौवाहमङ्गलम् ॥८८॥