________________
षष्ठः सर्गः ।
अथ श्रीमान्यशोभद्रसूरिः पूरितदिग्यशाः । तुर्यादिभिः कृताहारो विजहार वसुन्धराम् ॥ ९॥ धर्मेणादुपज्ञेन स चतुर्दशपूर्वभृत् । विश्वमप्रणयद्विखं जीमूत दव वारिणा ॥२॥ मेधाविनो भद्रवाहसम्भूतविजयौ सुनौ । चतुर्दशपूर्वधरौ तस्य शिष्यौ बभूवतुः ॥३॥ सूरिः श्रौमान्यशोभद्रः श्रुतनिध्योन्तयोर्द्वयोः । स्वमाचार्यक्रमारोप्य परलोकमसाधयत् ॥४॥
भद्रबाहुर्जगद्भद्रकरो ऽथ विहरन्भुवि । क्षमाश्रमणमद्धेन राजन्राजगृहं ययौ ॥५॥ चत्वारो वणिजन्तस्मिन्पुरे स्वयमो ऽभवन् । उद्यानद्रुमवदृद्धिं जग्मिवासः सहैव हि ॥ ६ ॥ सन्निधौ भद्रवाहोस्ते धर्म बुराईतम् । कषायाग्निजलामारं प्रतिबोधं च लेभिरे ॥७॥ श्रीभद्रबाहुपादान्ते दान्तात्मानः सहैव ते । प्रव्रज्यामाशु जग्टहुर्गृहवासपराङ्मुखाः ॥ ८ ॥ तप्यमानास्तपस्तौ प्रसुपार्जितबहुश्रुताः । युगमाचदत्तदृशो विहरन्तो महीतले ॥८॥
प्रियां तथ्यां मितां वाचं वदन्तः कुक्षिशम्वलाः । निरोहा निर्ममाः साम्यवन्तः सन्तोषशालिनः ॥ १० ॥