________________
१५२
परिशियपर्वणि पञ्चमः सर्गः।
ऊर्ध्वरेता भवेत्प्राज्ञः सर्वतो मैथुनं त्यजन् । मैथुनं खस्नु संमारविषपादपदोहदः ॥४४॥ मुक्का परिग्रहं सवें स्वशरीरे ऽपि निःस्पृहः । प्रात्मारामो भवेद्विद्वान्यदीच्छेदपुनर्भवम ॥ ४ ॥ अहिंसासूनृतास्तेयब्रह्माकिञ्चन्यलक्षणोः । प्रतैः पञ्चभिरप्येवं भवादात्मानमुद्धगेत् ॥४६॥ ज्ञात्वा पाय्यम्भवस्तत्त्वं भवोद्विग्नः क्षणादभूत् । प्रभवखामिनः पादानत्वा चैवं व्यजिज्ञपत् ॥४७॥ अमगुरूगिरा मे ऽभूदतत्त्वे तत्त्वधौश्चिरम । मृत्पिण्डमपि इमैव पौतोन्मत्तो हि पश्यति ॥१८॥ तदद्य जाततत्त्वस्य प्रव्रज्या दौयतां मम । भवकूपे निपततो इस्तालम्बनमन्त्रिमा ॥४८॥ ततश्च प्रभवस्वामी शय्यम्भवमहाद्विजम् । संसारवैरिणो भीतं परिवाजयति मतम् ॥५०॥ परोष हेभ्यो नाभैषोत्म तपस्यन्महाशयः । दिल्या कर्म क्षिपामौति प्रत्युतोडुषितो ऽभवत् ॥५१॥ तुर्यषष्ठाष्टमादौनि दुस्तपानि तपांसि मः । तेपेतरां तपनवत्तेजोभिरतिभासुरः ॥१२॥ कुर्वाणो गुरुशुश्रूषां गुरुपादप्रसादतः । महाप्राज्ञः क्रमेणाभूत्स चतुर्दशपूर्वमत् ॥५३॥ श्रतज्ञानादिना तुन्य रूपान्तरमिवात्मनः । प्रभवस्त पदे न्यस्य परलोकमसाधयत् ॥५४॥